|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.33. अध्यायः 033
Mahabharata - Shanti Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रति प्रायश्चित्तप्रयोजकपापकर्मणां प्रायश्चित्तानां च कथनम्॥ 1॥
Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-33-0x(5403)(66063)
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः।
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह॥ 12-33-1(66064)
व्यास उवाच। 12-33-2x(5404)
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन्।
प्रायश्चित्तीयते ह्येवं नरो मिथ्याऽनुवर्तयन्॥ 12-33-2(66065)
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत।
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि॥ 12-33-3(66066)
परिवित्तिः परिवेत्ता ब्रह्मेज्यायाश्च दूषकः।
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च॥ 12-33-4(66067)
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा।
अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः॥ 12-33-5(66068)
ग्रामयाजी च कौन्तेय मांसस्य परिविक्रयी।
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी॥ 12-33-6(66069)
शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः।
वृथा पशुसमालम्भी वनदाहस्य कारकः॥ 12-33-7(66070)
अनृतेनोपवर्ती च प्रतिषेद्धा गुरोस्तथा।
`स्वदत्तस्यापहर्ता च परदत्तनिरोधकः॥ 12-33-8(66071)
वाग्दत्तं च मनोदत्तं धारादत्तं च यो हरेत्।
पाकभेदेन भोक्ता च भुञ्जानस्याप्यनादरः॥ 12-33-9(66072)
स्वजनैः कलहं चैव आश्रितानामरक्षणम्। '
एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः॥ 12-33-10(66073)
अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे।
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु॥ 12-33-11(66074)
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया।
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य भक्षणम्॥ 12-33-12(66075)
शरणागतसंत्यागो भृत्यस्याभरणं तथा।
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा॥ 12-33-13(66076)
आधानादीनि कर्माणि शक्तिमान्न करोति यः।
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत॥ 12-33-14(66077)
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम्।
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः॥ 12-33-15(66078)
पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः।
अप्रजायन्नरव्याघ्र भवत्यधार्मिको नरः॥ 12-33-16(66079)
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च॥ 12-33-17(66080)
यानि कुर्वन्निकुर्वंश्च प्रायश्चित्तीयते नरः।
एतान्येव तु कर्माणि क्रियमाणानि मानवैः।
येषुयेषु निमित्तेषु न लिप्यन्तेऽथ ताञ्शृणु॥ 12-33-18(66081)
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत्॥ 12-33-19(66082)
इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते।
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते॥ 12-33-20(66083)
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम्।
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति॥ 12-33-21(66084)
प्राणात्यये तथा ज्ञानादाचरन्मदिरामपि।
आदेशितो धर्मपरैः पुनः संस्कारमर्हति॥ 12-33-22(66085)
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम्।
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति॥ 12-33-23(66086)
गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम्।
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः॥ 12-33-24(66087)
स्तेयं कुर्वंश्च गुर्वर्थमापत्सु न निषिध्यते।
बहुशः कामकारेण न चेद्यः संप्रवर्तते॥ 12-33-25(66088)
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति।
स्वयमप्राशिता यश्च न स पापेन लिप्यते॥ 12-33-26(66089)
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च।
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च॥ 12-33-27(66090)
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते॥ 12-33-28(66091)
पारिवित्त्यं तु पतिते नास्ति प्रव्रजिते तथा।
भिक्षिते पारदार्यं च तद्धर्मस्य न दूषकम्॥ 12-33-29(66092)
वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत्।
भ्रनुग्रहः पशूनां हि संस्कारो विधिनोदितः॥ 12-33-30(66093)
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम्।
सत्काराणां तथा तीर्थे नित्यं वा प्रतिपादनम्॥ 12-33-31(66094)
स्त्रियास्तथापचारिण्या निष्कृतिः स्याददूषिका।
अपि सा पूयते तेन न तु भर्ता प्रदुष्यति॥ 12-33-32(66095)
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददोषवान्।
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान्॥ 12-33-33(66096)
वनदाहो गवामर्थे क्रियमाणो न दूषकः।
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति॥ 12-33-34(66097)
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत।
`यानि कृत्वा नरः पूतो भविष्यति नराधिप॥' ॥ 12-33-35(66098)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-33-1 प्रायश्चित्तीयते प्रायश्चित्तेऽधिक्रियते॥ 12-33-2 मिथ्यानुवर्तयन्कापट्यं चरन्॥ 12-33-4 अनूढे ज्येष्ठे ऊढवान् कनिष्ठः परिवेत्ता। परिवित्तिः पूर्वजः। ज्येष्ठायामनूढायां कनिष्ठामूढवानग्रेदिधिषुः। दिधिषूपतिस्तु कनिष्ठाविवाहोत्तरं ज्येष्ठामूढवान्॥ 12-33-5 अबकीर्णां नष्टव्रतः। अतीर्थे अपात्रे त्यागी दाता॥ 12-33-6 अपविध्येत त्यजेत्। ब्रह्मविक्रयी भृतकाध्यापकः॥ 12-33-14 नित्यदेयानि गोग्रासादीनि॥ 12-33-16 अप्रजायन् धर्मपत्न्यां काले मैथुनमकुर्वन्॥ 12-33-17 इतरेण संक्षेपेण॥ 12-33-19 जिघांसी हन्तुमिच्छावान्। इयात् गच्छेत्॥ 12-33-20 मन्त्रो मन्युरकार्षीन्नमोनम् इत्यादिर्मन्यवे स्वाहेत्यन्तः॥ 12-33-21 मन्युः क्रोधः तन्मन्युं शत्रोः क्रोधं प्रति ऋच्छति गच्छति। क्रोध एव तं प्रतीपीभूय परशरीरद्वारा हन्तीत्यर्थः॥ 12-33-22 आदेशित उपदिष्टः॥ 12-33-24 गुर्वर्थं गुर्वाज्ञया॥ 12-33-26 स्वय प्रकाशितो यश्च इति ट. ड. थ. पाठः॥ 12-33-28 व्रतं नावर्तते पुनरुपनयनं न कर्तव्यमित्यर्थः। आज्यहोमः पुनर्मामैत्विन्द्रियमिति मन्त्रेण॥ 12-33-29 वतिप्ते ज्येष्ठभ्रातरि। भिक्षिते धर्मार्थमपि रेतः सिञ्चेति स्त्रिया प्रार्थिते सति॥ 12-33-30 पशूनामनुग्रहः अहिंसनं संस्कारः पावित्र्यमित्यन्वयः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|